वांछित मन्त्र चुनें

ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभि॑: । हरि॑: सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥

अंग्रेज़ी लिप्यंतरण

dhartā divaḥ pavate kṛtvyo raso dakṣo devānām anumādyo nṛbhiḥ | hariḥ sṛjāno atyo na satvabhir vṛthā pājāṁsi kṛṇute nadīṣv ā ||

पद पाठ

ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ । हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥ ९.७६.१

ऋग्वेद » मण्डल:9» सूक्त:76» मन्त्र:1 | अष्टक:7» अध्याय:3» वर्ग:1» मन्त्र:1 | मण्डल:9» अनुवाक:4» मन्त्र:1


बार पढ़ा गया

आर्यमुनि

अब परमात्मा का सर्वाधाररूप से वर्णन करते हैं।

पदार्थान्वयभाषाः - (दिवः) द्युलोक का (धर्ता) धारणकर्ता परमात्मा (पवते) हमको पवित्र करे (नृभिः) सब मनुष्यों का (कृत्व्यः) जो उपास्य है तथा (रसः) आनन्दस्वरूप है और (दक्षः) सर्वज्ञ है। (देवानामनुमाद्यः) और विद्वानों का आह्लादक है। (हरिः) उक्त गुणयुक्त परमात्मा (सृजानः) सम्पूर्ण सृष्टि की रचना करता हुआ (अत्यो न) विद्युत् के समान (वृथा) अनायास से ही (सत्त्वभिः) प्राणियों द्वारा (पाजांसि) बलों को (कृणुते) करता है और उक्त परमात्मा (नदीषु) प्रकृति की सम्पूर्ण शक्तियों में (आ) व्याप्त है ॥१॥
भावार्थभाषाः - प्रत्येक प्राकृत पदार्थ में परमात्मा की सत्ता विद्यमान है और वही द्युलोकादि का अधिकरण है ॥१॥
बार पढ़ा गया

आर्यमुनि

अथ द्युभ्वादीनामाधारत्वं वर्ण्यते।

पदार्थान्वयभाषाः - (दिवः) द्युलोकस्य (धर्ता) धारको जगदीश्वरः (पवते) मां पवित्रयतु। (नृभिः) सर्वैरपि जनैः (कृत्व्यः) उपासनीयः। अथ च परमेश्वरः (रसः) आनन्दस्वरूपस्तथा (दक्षः) सर्वज्ञः (देवानामनुमाद्यः) विदुषामाह्लादकः (हरिः) पापहारकः परमात्मा (सृजानः) सर्वं सृजन् (अत्यो न) विद्युदिव (वृथा) अनायासेनैव (सत्त्वभिः) प्राणिभिः (पाजांसि) बलानि (कृणुते) करोति। अथ च पूर्वोक्तः परमेश्वरः (नदीषु) प्रकृतेः सर्वासु शक्तिषु (आ) व्याप्नोति। उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥१॥